|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.260. अध्यायः 260
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
वायुना हैहयार्जुनं प्रति स्वतेजसा दैत्यदाहनरूपागस्त्यवसिष्ठचरित्रकीर्तनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
भीष्म उवाच।
इत्युक्तः स नृपस्तूष्णीमभूद्वायुस्ततोऽब्रवीत्।
शृणु राजन्नगस्त्यस्य महात्म्यं ब्राह्ममस्य ह॥ 13-260-1(91835)
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः।
यज्ञाश्चैषां हृताः सर्वे पितॄणां च स्वधास्तथा॥ 13-260-2(91836)
कर्मज्या मानवानां च दानवैर्हैहयर्षभ।
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः॥ 13-260-3(91837)
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम्।
ददृशुस्तेजसाः युक्तमगस्त्यं विपुलव्रतम्॥ 13-260-4(91838)
अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च।
इदमूचुर्महात्मानं वाक्यं काले जनाधिप॥ 13-260-5(91839)
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्चि भ्रंशिताः।
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गवः॥ 13-260-6(91840)
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्।
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये॥ 13-260-7(91841)
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा।
अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः॥ 13-260-8(91842)
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा।
उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम्॥ 13-260-9(91843)
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः।
येन्येऽधस्ता महीस्थाश्च तेन दग्धा महासुराः॥ 13-260-10(91844)
त्यक्तलोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप।
अथैनमब्रुवन्देवा भूमिष्ठानसु राञ्जहि॥ 13-260-11(91845)
इत्युक्तः प्राह देवान्स न शक्तोस्मि महीगतान्।
दग्धुं तपो हि क्षीयेन्मे न धक्ष्यामीति पार्थिव॥ 13-260-12(91846)
एवं दग्धा भगवता दानवाः स्वेन तेजसा।
अगस्त्येन तदा राजंस्तपसा भावितात्मना॥ 13-260-13(91847)
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ।
ब्रवीम्यन्यं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम्॥ 13-260-14(91848)
भीष्म उवाच। 13-260-15x(7694)
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्।
शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः॥ 13-260-15(91849)
`वैखानसविधानेन गङ्गातीरं समाश्रिताः।'
आदित्याः सत्रमासन्त सरो वैखानसं प्रति।
वसिष्ठं मनसा गत्वा ज्ञात्वा तत्वस्य गोचरम्॥ 13-260-16(91850)
यजमानांस्तु तान्दृष्वा सर्वान्दीक्षानुकर्शितान्।
हन्तुमैच्छन्त शैलाभा बलिनो नाम दानवाः॥ 13-260-17(91851)
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः।
हता हता वै तत्रैते जीवन्त्याप्लुत्य दानवाः॥ 13-260-18(91852)
ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान्।
विक्षोभयन्तः सलिलमुत्थितं शतयोजनम्॥ 13-260-19(91853)
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि।
ततस्तैरर्दिता देवाः शरणं वासवं ययुः॥ 13-260-20(91854)
स च तैर्व्यथितः शक्रो वसिष्ठं सरणं ययौ।
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः॥ 13-260-21(91855)
तदा तान्दुःकितान्ज्ञात्वा आनृशंस्यपरो मुनिः।
अयत्नेनादहत्सर्वाञ्ज्वलता स्वेन तेजसा॥ 13-260-22(91856)
कैलासं प्रस्थितां चैव नदीं गङ्गां महातपाः।
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः॥ 13-260-23(91857)
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत्।
हताश्च बलिनो यत्र स देशे बलिनोऽभवत्॥ 13-260-24(91858)
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः।
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना॥ 13-260-25(91859)
एतत्कर्म वसिष्ठस्य कथितं हि मयाऽनघ।
ब्रवीम्यन्यं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम्॥ 26 ॥ ॥ 13-260-26(91860)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः॥ 260 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|